SRI MATANGI / SHYAMALA KAVACAM/ ಶ್ರೀ ಮಾತಂಗೀ / ಶ್ಯಾಮಲಾ ಕವಚಂ

SHRI GURUBHYO NAMAH SHRI PARAMA GURUBHYO NAMAH SRI PARAMESHTHI GURUBHYO NAMAH

श्रीमातङ्गी कवचम्

अस्य श्रीमातङ्गीकवचमन्त्रस्य महायोगीश्वरऋषिः
अनुष्टुप् छन्दः श्रीराजमातङ्गीश्वरी
श्रीमनङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् ।
वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥ १॥

सर्वालङ्कारसंयुक्तां श्यामलां मदशालिनीम् ।
नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥ २॥

एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् ।
शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥ ३॥

ललाटं पातु चण्डाली भ्रुवौ मे मदशालिनी । var चण्डेशी
कर्णौ मे पातु मातङ्गी शङ्खौ कुण्डलशोभिता ॥ ४॥

नेत्रे मे पातु रक्ताक्षी नासिकां पातु मे शिवा ।
गण्डौ मे पातु देवेशी ओष्ठौ बिम्बफलाधरा ॥ ५॥

जिह्वां मे पातु वागीशी दन्तान् कल्याणकारिणी ।
पातु मे राजमातङ्गी वदनं सर्वसिद्धिदा ॥ ६॥

कण्ठं मे पातु हृद्याङ्गी वीणाहस्ता करौ मम ।
हृदयं पातु मे लक्ष्मीर्नाभिं मे विशवनायिका ॥ ७॥

मम पार्श्वद्वयं पातु सूक्ष्ममध्या महेश्वरी ।
शुकश्यामा कटिं पातु गुह्यं मे लोकमोहिनी ॥ ८॥

ऊरू मे पातु भद्राङ्गी जानुनी पातु शाङ्करी ।
जङ्घाद्वयं मे लोकेशी पादौ मे परमेश्वरी ॥ ९॥

प्रागादिदिक्षु मां पातु सर्वैश्वर्यप्रदायिनी ।
रोमाणि पातु मे कृष्णा भार्यां मे भववल्लभा ॥ १०॥

शङ्करी सर्वतः पातु मम सर्ववशङ्करी ।
महालक्ष्मीर्मम धनं विश्वमाता सुतान् मम ॥ ११॥

श्रीमातङ्गीश्वरी नित्यं मां पातु जगदीश्वरी ।
मातङ्गी कवचं नित्यं य एतत्प्रपठेन्नरः ॥ १२॥

सुखित्वं सकलान् लोकान् दासीभूतान्करोत्यसौ ।
प्राप्नोति महतीं कान्तिं भवेत्काम शतप्रभः ॥ १३॥

लभते महतीं लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् ।
अणिमाद्यष्टसिद्धं यं सञ्चरत्येष मानवः ॥ १४॥

सर्वविद्यानिधिरयं भवेद्वागीश्वरेश्वरः ।
ब्रह्मराक्षसवेतालभूतप्रेत पिशाचकैः ॥ १५॥

ज्वलन्वह्निरिव शस्यैर्वेश्यते भूतपूर्वकैः ।
परमं योगमाप्नोति दिव्यज्ञानं समश्नुते ॥ १६॥

पुत्रान् पौत्रानवाप्नोति श्रीर्विद्याकान्ति संयुतान् ।
तद्भार्या दुर्भगा चापि कान्त्या रतिसमाभवेत् ॥ १७॥

सर्वान् कामानवाप्नोति महाभोगांश्च दुर्लभान् । महाभोगान् सुदुर्लभान्
भुक्तिमन्ते समाप्नोति साक्षात्परशिवो भवेत् ॥ १८॥

इति श्री महाऽऽगमरहस्ये दत्तात्रेय वामदेव संवादे
सप्तमपरिच्छेदे श्रीमातङ्गी कवचम् सम्पूर्णं ।

ReplyForward

ಶ್ರೀಮಾತಂಗೀ ಕವಚಂ

ಅಸ್ಯ ಶ್ರೀಮಾತಂಗೀಕವಚಮಂತ್ರಸ್ಯ ಮಹಾಯೋಗೀಶ್ವರಋಷಿಃ
ಅನುಷ್ಟುಪ್ ಛಂದಃ ಶ್ರೀರಾಜಮಾತಂಗೀಶ್ವರೀ
ಶ್ರೀಮನಂಗೀಪ್ರಸಾದಸಿದ್ಧ್ಯರ್ಥೇ ಜಪೇ ವಿನಿಯೋಗಃ ..

ನೀಲೋತ್ಪಲಪ್ರತೀಕಾಶಾಮಂಜನಾದ್ರಿಸಮಪ್ರಭಾಂ .
ವೀಣಾಹಸ್ತಾಂ ಗಾನರತಾಂ ಮಧುಪಾತ್ರಂ ಚ ಬಿಭ್ರತೀಂ .. 1..

ಸರ್ವಾಲಂಕಾರಸಂಯುಕ್ತಾಂ ಶ್ಯಾಮಲಾಂ ಮದಶಾಲಿನೀಂ .
ನಮಾಮಿ ರಾಜಮಾತಂಗೀಂ ಭಕ್ತಾನಾಮಿಷ್ಟದಾಯಿನೀಂ .. 2..

ಏವಂ ಧ್ಯಾತ್ವಾ ಜಪೇನ್ನಿತ್ಯಂ ಕವಚಂ ಸರ್ವಕಾಮದಂ .
ಶಿಖಾಂ ಮೇ ಶ್ಯಾಮಲಾ ಪಾತು ಮಾತಂಗೀ ಮೇ ಶಿರೋಽವತು .. 3..

ಲಲಾಟಂ ಪಾತು ಚಂಡಾಲೀ ಭ್ರುವೌ ಮೇ ಮದಶಾಲಿನೀ . var ಚಂಡೇಶೀ
ಕರ್ಣೌ ಮೇ ಪಾತು ಮಾತಂಗೀ ಶಂಖೌ ಕುಂಡಲಶೋಭಿತಾ .. 4..

ನೇತ್ರೇ ಮೇ ಪಾತು ರಕ್ತಾಕ್ಷೀ ನಾಸಿಕಾಂ ಪಾತು ಮೇ ಶಿವಾ .
ಗಂಡೌ ಮೇ ಪಾತು ದೇವೇಶೀ ಓಷ್ಠೌ ಬಿಂಬಫಲಾಧರಾ .. 5..

ಜಿಹ್ವಾಂ ಮೇ ಪಾತು ವಾಗೀಶೀ ದಂತಾನ್ ಕಲ್ಯಾಣಕಾರಿಣೀ .
ಪಾತು ಮೇ ರಾಜಮಾತಂಗೀ ವದನಂ ಸರ್ವಸಿದ್ಧಿದಾ .. 6..

ಕಂಠಂ ಮೇ ಪಾತು ಹೃದ್ಯಾಂಗೀ ವೀಣಾಹಸ್ತಾ ಕರೌ ಮಮ .
ಹೃದಯಂ ಪಾತು ಮೇ ಲಕ್ಷ್ಮೀರ್ನಾಭಿಂ ಮೇ ವಿಶವನಾಯಿಕಾ .. 7..

ಮಮ ಪಾರ್ಶ್ವದ್ವಯಂ ಪಾತು ಸೂಕ್ಷ್ಮಮಧ್ಯಾ ಮಹೇಶ್ವರೀ .
ಶುಕಶ್ಯಾಮಾ ಕಟಿಂ ಪಾತು ಗುಹ್ಯಂ ಮೇ ಲೋಕಮೋಹಿನೀ .. 8..

ಊರೂ ಮೇ ಪಾತು ಭದ್ರಾಂಗೀ ಜಾನುನೀ ಪಾತು ಶಾಂಕರೀ .
ಜಂಘಾದ್ವಯಂ ಮೇ ಲೋಕೇಶೀ ಪಾದೌ ಮೇ ಪರಮೇಶ್ವರೀ .. 9..

ಪ್ರಾಗಾದಿದಿಕ್ಷು ಮಾಂ ಪಾತು ಸರ್ವೈಶ್ವರ್ಯಪ್ರದಾಯಿನೀ .
ರೋಮಾಣಿ ಪಾತು ಮೇ ಕೃಷ್ಣಾ ಭಾರ್ಯಾಂ ಮೇ ಭವವಲ್ಲಭಾ .. 10..

ಶಂಕರೀ ಸರ್ವತಃ ಪಾತು ಮಮ ಸರ್ವವಶಂಕರೀ .
ಮಹಾಲಕ್ಷ್ಮೀರ್ಮಮ ಧನಂ ವಿಶ್ವಮಾತಾ ಸುತಾನ್ ಮಮ .. 11..

ಶ್ರೀಮಾತಂಗೀಶ್ವರೀ ನಿತ್ಯಂ ಮಾಂ ಪಾತು ಜಗದೀಶ್ವರೀ .
ಮಾತಂಗೀ ಕವಚಂ ನಿತ್ಯಂ ಯ ಏತತ್ಪ್ರಪಠೇನ್ನರಃ .. 12..

ಸುಖಿತ್ವಂ ಸಕಲಾನ್ ಲೋಕಾನ್ ದಾಸೀಭೂತಾನ್ಕರೋತ್ಯಸೌ .
ಪ್ರಾಪ್ನೋತಿ ಮಹತೀಂ ಕಾಂತಿಂ ಭವೇತ್ಕಾಮ ಶತಪ್ರಭಃ .. 13..

ಲಭತೇ ಮಹತೀಂ ಲಕ್ಷ್ಮೀಂ ತ್ರೈಲೋಕ್ಯೇ ಚಾಪಿ ದುರ್ಲಭಾಂ .
ಅಣಿಮಾದ್ಯಷ್ಟಸಿದ್ಧಂ ಯಂ ಸಂಚರತ್ಯೇಷ ಮಾನವಃ .. 14..

ಸರ್ವವಿದ್ಯಾನಿಧಿರಯಂ ಭವೇದ್ವಾಗೀಶ್ವರೇಶ್ವರಃ .
ಬ್ರಹ್ಮರಾಕ್ಷಸವೇತಾಲಭೂತಪ್ರೇತ ಪಿಶಾಚಕೈಃ .. 15..

ಜ್ವಲನ್ವಹ್ನಿರಿವ ಶಸ್ಯೈರ್ವೇಶ್ಯತೇ ಭೂತಪೂರ್ವಕೈಃ .
ಪರಮಂ ಯೋಗಮಾಪ್ನೋತಿ ದಿವ್ಯಜ್ಞಾನಂ ಸಮಶ್ನುತೇ .. 16..

ಪುತ್ರಾನ್ ಪೌತ್ರಾನವಾಪ್ನೋತಿ ಶ್ರೀರ್ವಿದ್ಯಾಕಾಂತಿ ಸಂಯುತಾನ್ .
ತದ್ಭಾರ್ಯಾ ದುರ್ಭಗಾ ಚಾಪಿ ಕಾಂತ್ಯಾ ರತಿಸಮಾಭವೇತ್ .. 17..

ಸರ್ವಾನ್ ಕಾಮಾನವಾಪ್ನೋತಿ ಮಹಾಭೋಗಾಂಶ್ಚ ದುರ್ಲಭಾನ್ . ಮಹಾಭೋಗಾನ್ ಸುದುರ್ಲಭಾನ್
ಭುಕ್ತಿಮಂತೇ ಸಮಾಪ್ನೋತಿ ಸಾಕ್ಷಾತ್ಪರಶಿವೋ ಭವೇತ್ .. 18..

ಇತಿ ಶ್ರೀ ಮಹಾಽಽಗಮರಹಸ್ಯೇ ದತ್ತಾತ್ರೇಯ ವಾಮದೇವ ಸಂವಾದೇ
ಸಪ್ತಮಪರಿಚ್ಛೇದೇ ಶ್ರೀಮಾತಂಗೀ ಕವಚಂ ಸಂಪೂರ್ಣಂ .

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: