TITHI NITYA DEVATAS DHYANASLOKAS IN SANSKRIT LANGUAGE


SRI GURUBHYO NAMAH SRI PARAMA GURUBHYO NAMAH SRI PARAMESHTHI GURUBHYO NAMAH

SHANTAA VIMALAA PRAKASHAA ATMAA GUHAA CHIT YOGAASYA SRI PARANANDAADI SADGUROON NAMAAMYAHAM PUNAH PUNAH

Many have sent requests to post Dhyanaslokas of Sri Tithi nitya devatas in sanskrit language. Please find it below

कामॆश्वरी नित्यादॆवि

बालार्ककॊटिसंकाशाम् माणिक्यमुकुटॊज्वलां

हारग्रैवॆय कांचिभिरूर्मि कानु पुरादिभिः

मंडितां रक्तवसनाम् रत्नाभरण शॊभिताम्

षड्भुजां त्रीक्षणामिंदुकलाकलितमौलिकां

पंचाष्टषॊडशद्वक्त्रां दयामंथरवीक्षणां

पाशंकुशौ सीधुपूर्णां वरदं बिभ्रतीं करैः

ततः प्रयॊगान्कुर्वीत सिद्धॆ मंत्रॆ तु साधकः

भगमालिनी नित्यादॆवि

अरुणामरुणाकल्पां सुंदरीं सुस्मिताननां

त्रिनॆत्रां बहुभि षड्भिरॊपॆतां कमलासनाम्

कल्हार पाश पुंड्रॆक्षु कॊदंडा न्वामबहुभिः

दधानाम् दक्षिण्यैः पद्ममंकुशम् पुष्प सायकं

तथाविधाभिः परितॊ युतां शक्ति गणैः स्तुतैः

अक्षरॊक्ताभि रन्याभिः स्मरॊन्माद मदात्माभिः

नित्यक्लिन्नानित्यादॆवि

अरुणामरुणा कल्पामरुणाम् शुकधारिणीम्

अरुणास्रग्विलॆपाम् तां चारुस्मॆरमुखांबुजाम्

नॆत्रत्रयॊल्लासद्वक्त्रम् भालॆ घर्मांबु मौक्तिकैः

विराजमानां मुकुटलसदर्धॆंदुशॆखरां

चतुर्भिर्भाहुभिः पाशमंकुशं पानपात्रकं

अभयं बिभ्रतीम् पद्ममध्यासीनाम् मदालसां

द्यात्व्यैवं पूजयॆन्नित्यक्लिन्नाम् नित्यां स्वशक्तिभिः

भॆरुंडा नित्यादॆवि

तप्तकांचन संकाश दॆहां नॆत्रत्रयान्वितां

चारुस्मितां चितमुखीम् दिव्यालंकार भूषितां

रसनूपु रॊर्म्यादि भूषणै रतिसुंदरीम्

पाशांकुशौ चर्मखड्गौ गदावज्र धनुह् शरान्

करैर्दधाना मासिनाम् पूजयाम् मत्परांस्थि तां

शक्तीश्च तत्समाकार तॆजॊहॆति भिरान्विताः

पूजयेत् तद्वदभितः स्मितास्या विजयादिकाः

वह्निवासिनी नित्यादॆवी

तप्तकांचन संकाशाम् नवयौवन सुंदरीं

चरुस्मॆर मुखंभॊजाम् विलसन्नयन त्रयां

अष्टभिर्बाहुभिर्युक्तां माणिक्याभरणॊज्वलां

पद्मरागकिरीटांशु संभॆदारुणितांबराम्

पीतकौशॆय वसनाम् रत्नमंजीरमॆखलाम्

रक्तमौक्तिक संभिन्नस्तबकाभरणॊज्वलाम्

रक्ताब्जकंबु पुंड्रॆक्षु चापे पूर्णॆंदु मंडलं

दधानां बहुभिर्वामैः कल्हारं हॆमशृंगकं

पुष्पॆषुं मातुलिंगं च दधानां दक्षिण्यै करैः

स्वस्वनामाभि रभितः शक्तिभिः परिवारितां

ऎवं ध्यात्त्वार्चयॆद्वह्निवासिनीं वह्निविग्रहां

वज्रॆश्वरी नित्यादॆवी

रक्तां रक्तांबरां रक्तगंध मालाविभूषणं

चतुर्भुजाम् त्रिनयनाम् माणिक्य मुकुटॊज्वलाम्

पाशांकुशामिक्षुचापं दाडिमीसायकं तथा

दधानाम् बाहुभिर्नॆत्रैर्दया प्रीति शीतलैः

पश्यंतीं सधकं अस्त्रषट्कॊणाब्ज महीपुरॆ

चक्रमध्यॆ सुखासीनाम् स्मॆरवक्त्रासरॊरुहाम्

शक्तिभिः स्वस्वरूपाभरावृतां पॊतमध्यगॆ

सिंहासनॊs भितः प्रॆंखतपॊतस्थाभिश्च शक्तिभिः

वृतां ताभिर्विनॊदानि यातायाता दिभिः सदा

कुर्वाणामरुणांभॊदौ चिंतयॆन्मंत्र नायकं

शिवदूति नित्यादॆवि

निदाघकाल मध्याह्न दिवाकर समप्रभां

नवरत्नकिरीटां च् त्रीक्षणामरुणांबरां

नानाभरण संभिन्नदॆहकांति विराजितां

शुचिस्मितामष्टभुजाम् स्तूयमानां महर्षिभिः

पाशं खॆटं गदां रत्नचषकं वामबाहुभिः

दक्षिण्यैरंकुशम् खड्गं कट्टारं कमलं तथा

दधानां साधकाभीष्टदानॊद्यम समन्वितां

ध्यात्वैवं पूजयॆद्दॆवीं दूतीं दुर्नीति नाशिनीं

इत्यॆषा कथिता तुभ्यं समस्तापन्निवारिणी

त्वरिता नित्यादॆवि

श्यामवर्णशुभाकारां नवयौवन ऒभितां

द्विद्विक्रमादष्ट नागैः कल्पिताभरणॊज्वलैः

ताटंकमंगदं तद्वद्रसना नूपुरं च् तैः

विप्रक्षत्रियविट्शूद्र जातिभिर्भीमविग्रहैः

पल्लवांकुशसंवीतां शिखिपिच्छकृतैः शुभैः

वलयैर्भूषितभुजां माणिक्यमुकुटॊज्वलां

बर्हिर्बहकृतापीडां त् च्छत्रां तत्पताकिनीं

गुंजागुणलसद्वक्षः कुचकुंकुममंडलां

त्रिनॆत्रां चारुवदनां मंदस्मितमुखांबुजां

पाशांकुश वराभीति लसद्भुजचतुष्टयां

ध्यात्व्यैवं तॊतलां दॆवीं पूजयॆच्छक्तिभिर्युतां

तदग्रस्थां तु फट्कारीं शर चापे करॊज्वलां

कुलसुंदरी नित्यादॆवि

लॊहितां लॊहिताकार शक्ति व्ंद निषॆवितां

लॊहितांकुश भूषास्र ग्लॆपनाम् षण्मुखांबुजां

अनर्घ्यरत्नघटित माणिक्यमुकुटोज्वलां

रत्नस्तबक संछिन्नलसद्वक्षःस्थलां शुभां

कारुण्यनंदपरमां अरुणाम्बुजविष्टरां

भुजैर्द्वादशभिर्युक्तां सर्वॆषां सर्ववाज्मयीं

प्रवालाक्षस्रजं पद्मं कुंडिकां रत्ननिर्मितां

रत्नपूर्ण तु चषकं लुंगीं व्याख्यानमुद्रिकां

दधानां दक्षिण्यॆर्वामैः पुस्तकं चारुणॊत्पलं

हैमींच लॆखनीं रत्नमालां कंबुवरं भुजैः

आभितः स्तूयमानां च् दॆवगंधर्वकिन्नरैः

यक्षराक्षस दैत्यर्षिसिद्धविद्याधरादिभिः

ध्यात्वैवमर्चयॆन्नित्यां वाग्लक्ष्मीकांतिसिद्धयॆ

नित्या नित्यादॆवि

उद्यद्भास्कर बिंबाभाम् माणिक्य मुकुटॊज्वलां

पद्मरागकृतकल्पामर्णांशुकधारिणीम्

चारुस्मितलसद्वक्त्र षट्सरॊजविराजिताम्

प्रतिवक्त्रंत्रिनयनाम् भुजैर्द्वादशभिरायुताम्

पाशाक्षगुणपुंड्रॆक्षु चाप खॆटित्रिशूलकान्

करैर्वामैस्रधानाम् च अंकुशं पुस्तकं तथा

पुष्पॆषुमम्जुजं चैवनृकपालाभयॆ तथा

दधानाम् दक्षिण्यैर्हस्तैर्ह्यायॆद्दॆवी मनन्यधीः

नील पताक नित्यादॆवि

इंद्र नील निभां भास्वनवमणि मौलि विराजिताम्

पंच वक्त्रं त्रिनयनामरुणांसुकधारिणिम्

दशहस्ताम् लसन्मुक्तामण्याभरण मण्डिताम्

रत्नस्तबकसंपन्न दॆहां चारुस्मिताननाम्

पाशां पताकां चर्मापि शडांक्ग्रचापं वरं करैः

दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः

अंकुशं च् तथा शक्तिं खड्गं बाणं तथाभयं

दधानं दक्षिण्यैर्हस्तैरास्दीनाम् पद्मविश्वरे

स्वाकारवर्णवॆशास्यपाण्यायुध विभूषणैः

शक्तिवृंद्यैवृताम् ध्यायॆद्दॆवीं नित्यर्चनक्रमॆता

त्रिषट्कॊणयुतां पद्ममष्टपत्रं ततॊ बहिः

अष्टास्रं भूपुरद्वन्द्वावृताम् तत्पुरयुग्मकं

चतिर्द्वारयुक्तां दिक्षुशखाभिश्च समन्विताम्

कृत्वा तामावृतां शक्तिणैस्तत्रार्चयॆच्चिन्नां

ऎषतॆ द्वादशी नित्या प्रॊक्ता नीलपताकिनी

समरॆ विजयं खड्गपादुकांजनसिद्धिदा

वॆतालयक्षिणी चॆतपिशाचदिप्रशॊधिनी

निधानबिलसिद्धान्नसाधुनि कामदॊदिता

विजया नित्यादॆवि

पंचवक्त्राम् दशभुजाम् प्रतिवक्त्रं त्रिलॊचनाम्

भास्वन् मुकुट विन्यासचंद्रलॆखाविराजितां

सर्वाभरणसंयुक्ताम् पीतांबरसमुज्वलाम्

उद्यद्भस्वद्विंबतुल्यदॆहकांतिं शुचि स्थितां

शंखं पाशं खॆट चापौकल्हारं वामबाहुभिः

चक्रं तथान्कुशम् खड्गं सायकं मातुलुंगकं

दधानाम् दक्षिण्यैर्हस्तॆ प्रयॊगॆ भीम दर्शनाम्

उपासनॆतिसौम्याम् च सिंहॊपरि कृतासनाम्

व्याघ्रारूढाभि रजितः श्क्तिभिः परिवारितां

समरॆ पूजनॆsन्यॆषु प्रयॊगॆषु सुखासनाम्

शक्तयश्चापि पूजायाम् सुखासीन समन्विताः

सर्वादॆव्या समाकारमुखपाण्यायुधा अपि

चतुरस्रद्वयं कृत्वा चतुर्द्वारॊपशॊभितं

शाखाष्टकसम्फ्पॆतं तत्र प्राग्वत्समार्चयॆत्

तदंतर्वृत्युग्मांतरष्टकॊणं विधाय तु

तदंतश्च तथा पद्मं षॊडशच्छदसंयुतं

तथैवाष्टच्छदं पद्मं विधायावाह्य तत्र तां

तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयॆत्

सर्वमंगळा नित्यादॆवि

ताम् नित्यां जात रूपाभां

मुक्तामाणिक्यभूषणाम्

माणिक्य मुकुटां नॆत्रद्व्ययप्रॆम्खद्दयापराम्

द्विभुजाम् स्वासनाम् पद्मॆ त्वष्टषॊडशतद्वयैः

पथैरुपॆतॆ सचतुर्द्वारभूसद्मयुग्मकॆ

मातुलुन्गफलं दक्षॆ दधानं करपंकजॆ

वामॆन निजभक्तानाम् प्रयच्चंतॆ धनादिकं

स्वसमानाभिरभितः शक्तिभिः परिवारितां

ज्वालमालिनि नित्यादॆवि

ज्वलज्वलन संकाशां माणिक्य मुकुटॊज्वलाम्

षद्वक्त्रां द्वादश भुजाम् सर्वाभरण भूषिताम्

पाशान्कुशौ खड्गखॆटौ चापनाणौ गदादरौ

सूलबन्ही वराभिति दधनाम् करपन्कजै

स्वप्रमाणाभिसहितः शक्तिभिः परिवारितां

चारुस्मितलद्वक्त्रसरॊजां त्रीक्षनान्वितां

चित्रनित्यादॆवि

उद्यदादित्यबिंबाभां नवरत्नविभूषणां

नवरत्नकिरीटां च् चित्रपट्यांशुकॊज्वलां

चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीं

सर्वानंदमयीं नित्यां समस्तॆप्सितदायिनीं

चतुर्भुजॆषु वै पाशमंकुशं वरदाभयॆ

दधानां मंगलां पद्मकर्णिका यॊनिमध्यगां

तच्छक्तिभिश्च तच्चक्रॆ तथैवार्चनमीरितं

2 Comments on “TITHI NITYA DEVATAS DHYANASLOKAS IN SANSKRIT LANGUAGE

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: